||श्रीसुब्रह्मण्य अष्टाकम||
हे स्वामिनाथ करुणाकर दीनबन्धो, श्रीपार्वतीशमुखपङ्कज पद्मबन्धो ।
श्रीशादिदेवगणपूजितपादपद्म, वल्लीसनाथ मम देहि करावलम्बम् ॥१॥
देवादिदेवनुतदेवगणाधिनाथ, देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद ।
देवर्षिनारदमुनीन्द्रसुगीतकीर्ते, वल्लीसनाथ मम देहि करावलम्बम्॥२॥
नित्यान्नदाननिरताखिल रोगहारिन्, तस्मात्प्रदान परिपूरितभक्तकाम ।
शृत्यागमप्रणववाच्यनिजस्वरूप, वल्लीसनाथ मम देहि करावलम्बम् ॥३॥
क्रौञ्चासुरेन्द्रपरिखण्डन शक्तिशूल, पाशादिशस्त्रपरिमण्डितदिव्यपाणे।
श्रीकुण्डलीश धृततुण्ड शिखीन्द्रवाह,वल्लीसनाथ मम देहि करावलम्बम् ॥४॥
देवादिदेवरथमण्डल मध्य वेद्य, देवेन्द्रपीठनगरं दृढचापहस्तम् ।
शूरं निहत्य सुरकोटिभिरीड्यमान, वल्लीसनाथ मम देहि करावलम्बम् ॥५॥
हारादिरत्नमणियुक्तकिरीटहार, केयूरकुण्डललसत्कवचाभिराम ।
हे वीर तारक जयाज़्मरबृन्दवन्द्य, वल्लीसनाथ मम देहि करावलम्बम् ॥६॥
पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः, पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः।
पट्टाभिषिक्त हरियुक्त परासनाथ, वल्लीसनाथ मम देहि करावलम्बम् ॥७॥
श्रीकार्तिकेयकरुणामृतपूर्णदृष्ट्या, कामादिरोगकलुषीकृतदुष्टचित्तम्।
भक्त्वा तु मामवकलाधर कान्तिकान्त्या, वल्लीसनाथ मम देहि करावलम्बम् ॥८॥
सुब्रह्मण्यकरावलम्बं पुण्यं ये पठन्ति द्विजोत्तमाः। ते सर्वे मुक्तिमायान्ति सुब्रह्मण्य प्रसादतः ।
सुब्रह्मण्य करावलम्बमिदं प्रातरुत्थाय यः पठेत् । कोटिजन्मकृतं पापं तत्क्षणादेवनश्यति ॥