Indian Festivals

श्री कार्तिकेय अष्टकम|

॥ श्रीकार्तिकेयाष्टकम् ॥

नमोऽस्तु वृन्दारकवृन्दवन्द्यपादारविन्दाय सुधाकराय ।

षडाननायामितविक्रमायगौरीहृदानन्दसमुद्भवाय ॥ १॥

नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे कर्त्रेसमस्तस्य मनोरथानाम् ।

दात्रे रथानां परतारकस्य हन्त्रेप्रचण्डासुरतारकस्य ॥ २॥

अमूर्तमूर्तायसहस्रमूर्तये गुणाय गण्याय परात्पराय।

अपारपाराय परापराय नमोऽस्तु तुभ्यंशिखिवाहनाय ॥ ३॥

नमोऽस्तु ते ब्रह्मविदांवराय दिगम्बरायाम्बरसंस्थिताय ।

हिरण्यवर्णायहिरण्यबाहवे नमो हिरण्यायहिरण्यरेतसे ॥ ४॥

तपः स्वरूपाय तपोधनाय तपःफलानां प्रतिपादकाय ।

सदा कुमाराय हि मारमारिणेतृणीकृतैश्वर्यविरागिणे नमः ॥५ ॥

नमोऽस्तु तुभ्यं शरजन्मने विभोप्रभातसूर्यारुणदन्तपङ्क्तये ।

बालाय चाबालपराक्रमाय षाण्मातुरायालमनातुराय ॥ ६॥

मीढुष्टमायोत्तरमीढुषेनमो नमो गणानांपतये गणाय ।

नमोऽस्तु ते जन्मजरातिगायनमो विशाखाय सुशक्तिपाणये॥ ७ ॥

सर्वस्य नाथस्य कुमारकाय क्रौञ्चारयेतारकमारकाय ।

स्वाहेय गाङ्गेय च कार्तिकेयशैवेय तुभ्यं सततंनमोऽस्तु ॥ ८॥

इति स्कान्दे काशीखण्डतः श्रीकार्तिकेयाष्टकंसम्पूर्णम् ॥

 || कार्तिकेय की आरती ||

 

 Disclaimer: The information presented on www.premastrologer.com regarding Festivals, Kathas, Kawach, Aarti, Chalisa, Mantras and more has been gathered through internet sources for general purposes only. We do not assert any ownership rights over them and we do not vouch any responsibility for the accuracy of internet-sourced timelines and data, including names, spellings, and contents or obligations, if any.